|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.57. अध्यायः 057
Mahabharata - Ashvamedhika Parva - Chapter Topics
शापाद्राक्षसत्वं गतेन सौदासेनोदङ्कभक्षणोद्यमे उदङ्केन पुनः प्रत्यागमनप्रतिज्ञापूर्वकं तम्प्रति कुण्डलयाचनम्॥ 1 ॥ उदङ्केन सौदासवचसा तत्पत्नींप्रति कुण्डलयाचने तया तम्प्रति मणिकुण्डलमहिमादिकथनपूर्वकं राजाभिज्ञानानयनचोदना॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्॥ 14-57-1(94044)
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः॥ 14-57-2(94045)
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम॥ 14-57-3(94046)
उदङ्ग उवाच। 14-57-4x(7887)
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः॥ 14-57-4(94047)
राजोवाच। 14-57-5x(7888)
षष्ठे काले ममाहारो विहितो द्विजसत्तम।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै॥ 14-57-5(94048)
उदङ्क उवाच। 14-57-6x(7889)
एवमस्तु महाराजि समयः क्रियतां तु मे।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्॥ 14-57-6(94049)
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर॥ 14-57-7(94050)
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा।
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम॥ 14-57-8(94051)
उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्॥ 14-57-9(94052)
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा॥ 14-57-10(94053)
सौदास उवाच। 14-57-11x(7890)
यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः।
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे॥ 14-57-11(94054)
उदङ्क उवाच। 14-57-12x(7891)
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ।
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले॥ 14-57-12(94055)
सौदास उवाच। 14-57-13x(7892)
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत॥ 14-57-13(94056)
उदङ्ग उवाच। 14-57-14x(7893)
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव॥ 14-57-14(94057)
वैशम्पायन उवाच। 14-57-15x(7894)
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम॥ 14-57-15(94058)
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः॥ 14-57-16(94059)
उदङ्क उवाच। 14-57-17x(7895)
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर।
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति॥ 14-57-17(94060)
सौदास उवाच। 14-57-18x(7896)
तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै॥ 14-57-18(94061)
वैशम्पायन उवाच। 14-57-19x(7897)
उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम्॥ 14-57-19(94062)
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना।
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय॥ 14-57-20(94063)
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ।
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि॥ 14-57-21(94064)
इमे हि दिव्ये मणिकुण्डले मे
देवाश्च यक्षाश्च महर्षयश्च।
तैस्तैरुपायैरपहर्तुकामा-
श्छिद्रेषु नित्यं परितर्कयन्ति॥ 14-57-22(94065)
निक्षिप्तमेतद्भुवि पन्नगास्तु
रत्नं समासाद्य परामृशेयुः।
यक्षास्तथोच्छिष्टधृतं सुराश्च
निद्रावशाद्वा परिधर्षयेयुः॥ 14-57-23(94066)
छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम।
देवराक्षसनागानामप्रमत्तेनि धार्यते॥ 14-57-24(94067)
एते दिवापि भासेते रात्रौ च द्विजसत्तम।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः॥ 14-57-25(94068)
एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते॥ 14-57-26(94069)
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके॥ 14-57-27(94070)
एवंविधे ममैते वै कुण्डले परमार्चिते।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय॥ ॥ 14-57-28(94071)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तपञ्चाशोऽध्यायः॥ 57 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-57-24 छिद्रेष्वेतेष्विमे इति पूर्वान्वयि। नागानां नागैः ह्रियेत इति सम्बन्धः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|